
Ayur Medicine
Evidence Based Medicine
Nāgara, Pippalī, Cavya, Pippalīmūla, Citraka, Hiṅgu, Ajamoda, Sarṣapa, Jiraka dvaya, Reṇuka, Indrayavā, Pāṭhā, Viḍaṅga, Gajapippalī, Kaṭukā, Ativiṣā, Bhāraṅgī, Vacā, Mūrva, Triphalā, Guggulu, Vaṅga Bhasma, Raupya Bhasma, Nāga Bhasma, Loha bhasma, Abhraka Bhasma, Maṇḍūra Bhasma and Rasa Sindūra
Sarva Vātavyādhi, Sarva Kuṣṭḥa, Arśas, Grahaṇī, Prameha, Vātarakta, Nābhiśūla, Bhagandara, Udāvarta, Kṣaya, Gulma, Apasmāra, Urograha, Mandāgni, Śvāsa, Kāsa, Aruci, Retodoṣa, Rajodoṣa, Vandhyatva, Medovṛddhi, Śotha, Śūla, Mūṣaka Viṣa, Netrārti. It acts as Rasāyana
Tridoṣahara
1. Very helpful in inflammatory stage of various Musculo-skeletal disorders like Osteoarthritis, Lumbar and Cervical Spondylosis 2. Also helpful in various skin diseases like Psoriasis, Eczema, etc.,
Arya Vaidya Nilayam Baidyanath Dhootapapeshwar
Śārṅgadhara Saṃhitā Madhyama Khaṇḍa (7/56-70) नागरं पिप्पली चव्यं पिप्पलीमूलचित्रकौ ।। भृष्टं हिङ्ग्वजमोदा च सर्षपो जीरकद्वयम् । रेणुकेन्द्रयवाः पाठा विडङ्गं गजपिप्पली ।। कटुकातिविषा भाङ्ग वचामूर्वे त्रिभागतः । प्रत्येकं शाणकानि स्युर्द्रव्याणीमानि विंशतिः ।। द्रव्येभ्यः सकलेभ्यश्च त्रिफला द्विगुणा भवेत् । एभिचर्णीकृतैः सर्वैः समो देयश्च गुग्गुलुः ।। (वङ्गं रौप्यं च नागं च लोहसारस्तथाभ्रकम् । मण्डूरं रससिन्दूरं प्रत्येकं पलसंमितम् ) ।। गुडपाकसमं कृत्वा इमं दद्याद्यथोचितम् | एकपिण्डं ततः कृत्वा धारयेद्घृतभाजने । । गुटिका: शाणमात्रास्तु कुत्वा ग्राह्या यथोचिताः । गुग्गुलुर्योगराजोऽयं त्रिदोषघ्नो रसायनः ।। मैथुनाहारपानानां त्यागी नैवात्र विद्यते । सर्वान्वातामयान्कुष्ठानर्शांसि ग्रहणीगदम् ।। प्रमेहं वातरक्तं च नाभिशूलं भगन्दरम् । उदावर्तं क्षयं गुल्ममपस्मारमुरोग्रहम् । मन्दाग्निं श्वासकासं च नाशयेदरुचिं तथा रेतोदोषहरः पुंसां रजोदोषहरः स्त्रियाम् । पुंसामपत्यजनको बन्ध्यानां गर्भदस्तथा । रास्त्रादिक्वाथसंयुक्तो विविधं हन्ति मारुतम् ।। काङ्कोल्यादिशृतात्पित्तं कफमारग्वधादिना । दार्वीशृतेन मेहांश्च गोमूत्रेण च पाण्डुताम् ।। मेदोवृद्धिं च मधुना कुष्ठं निम्बशृतेन च । छिन्नाक्वाथेन वातास्त्रं शोथं शूलं कणाशृतात् ।। पाटलाक्वाथसहितो विषं मूषकजं जयेत् त्रिफलाक्वाथसहितो नेत्रार्तिं हन्ति दारुणाम् ।। पुनर्नवादिक्वाथेन हन्यात्सर्वोदराण्यपि ।